diff --git a/sutraani/bhashya/11004.txt b/sutraani/bhashya/11004.txt index b3895e2f0..4bf23182b 100644 --- a/sutraani/bhashya/11004.txt +++ b/sutraani/bhashya/11004.txt @@ -1 +1,162 @@ -न धातुलोप आर्धधातुके धातुग्रहणं किमर्थम्? इह मा भूत्। लूञ्ञ्- लविता। लवितुम्। पूञ्ञ्- पविता। पवितुम् । आर्धधातुकग्रहणं किमर्थम्? त्रिधा बद्धो वृषभो रोरवीति । किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम्। आर्धधातुकनिमित्ते धातुलोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति। आहोस्विद् गुणवृद्धिविशेषणमार्धधातुकग्रहणम्। धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति । किं चातः? यदि लोपविशेषणम्। उपेद्धः प्रेद्धः अत्रापि प्राप्नोति। अथ गुणवृद्धिविशेषणम्। क्नोपयतीत्यत्रापि प्राप्नोति । यथेच्छसि तथास्तु। अस्तु लोपविशेषणम् । कथमुपेद्धः प्रेद्ध इति? बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे । यद्येवं नार्थो धातुग्रहणेन। इह कस्मान्न भवति। लूञ्ञ् लविता। लवितुम्। लवितव्यम् - इति? आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः। अथवा पुनरस्तु गुणवृद्धिविशेषणम् । ननु चोक्तं क्नोपयतीत्यत्रापि प्राप्नोति ? नैष दोषः। निपातनात् सिद्धम्। किं निपातनम्। चेले क्नोपेः इति । परिगणनं कर्तव्यम्। ॥ यङ्यक्क्यवलोपे प्रतिषेधः । यङ्यक्क्यवलोपे प्रतिषेधो वक्तव्यः। यङ्। बेभिदिता। मरीमृजः। यक्। कुषुभिता। मगधकः। क्य। समिधिता। दृषदकः। वलोपे- जीरदानुः। किं प्रयोजनम् ? ॥ नुम्लोपेस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ॥। नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधो मा भूदिति। नुम्लोपे। अभाजि। रागः। उपबर्हणम्। स्रिवेः अस्रेमाणम्। अनुबन्धलोपे- लूञ्ञ् लविता लवितुम्। यदि परिगणनं क्रियते स्यदः प्रश्रथः हिमश्रथ इत्यत्रापि प्राप्नोति । वक्ष्यत्येतत्- निपातनात् स्यदादिषु इति। तत्तर्हि परिगणनं कर्तव्यम् ? न कर्तव्यम्। नुम्लोपे कस्मान्न भवति ? इक्प्रकारणान्नुम्लोपे वृद्धिः। इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः। यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्यदः हिमश्रथः इत्यत्र न प्राप्नोति। इह च प्राप्नोति । अवोदः एधः ओद्मः इति । ॥ निपातनात्स्यदादिषु ॥। निपातनात् स्यादादिषु प्रतिषेधो भविष्यति। न च भविष्यति । यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्रिव्यनुबन्धलोपे कथम् ? प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः । यद्यार्धातुकनिमित्ते लोपे प्रतिषेधः, 'जीरदानुः' (ऋ॰ सं॰ ५।८३।१) अत्र न प्राप्नोति । ॥ रकि ज्यः सम्प्रसारणम् ॥ नैतज्जीवे रूपम्। रकि एतद् ज्यः सम्प्रसारणं भवति। यावता चेदानीं रकि जीवेरपि सिद्धं भवति । कथमुपबर्हणम् ? बृहिः प्रकृत्यन्तरम्। कथं ज्ञायते बृहिः प्रकृत्यन्तरमिति ? अचीति हि लोप उच्यते। अनजादावपि दृश्यते-निबृह्यते। अनिटीति चोच्यते। इडादावपि दृश्यते- निबर्हिता निबर्हितुम् इति। अजादावपि न दृश्यते- बृंहयति। बृंहकः। तस्मान्नार्थः परिगणनेन । यदि परिगणनं न क्रियते। भेद्यते छेद्यते अत्रापि प्राप्नोति । नैष दोषः। धातुलोप इति नैवं विज्ञायते- धातोर्लोपो धातुलोपो धातुलोपे इति। कथं तर्हि ? धातोर्लोपो यस्मिंस्तदिदं धातुलोपं धातुलोपे इति। तस्मादिग्लक्षणा वृद्धिः । यदि तर्हीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। पापचकः। पापठकः। मगधकः। दृषदकः। अत्र न प्राप्नोति । अल्लोपस्य स्थानिवत्त्वात्। अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः । ॥ अनारम्भो वा ॥ अनारम्भो वा पुनरस्य योगस्य न्याय्यः । कथं बेभिदिता। मरीमृजकः। कुषुभिता। मगधकः। समिधिता इति ? अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः। क्व च स्थानिवद्भावो नास्ति? यत्र हलचोरादेशः। लोलुवः। पोपुवः। मरीमृजः। सरीसृपः इति । अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । लुकि कृते न प्राप्नोति। इदमिह सम्प्रधार्यं लुक् क्रियतामल्लोपो वेति। किमत्र कर्तव्यम्? परत्वादल्लोपः। नित्यो लुक्। कृतेप्यल्लोपे प्राप्नोति अकृतेपि प्राप्नोति। लुगप्यनित्यः। कथम्। अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । अनवकाशस्तर्हि लुक्। सावकाशो लुक्। कोऽवकाशः? अवशिष्टः। अथापि कथंचिदनवकाशो लुक् स्यादेवमपि न दोषः। अल्लोपे योगविभागः करिष्यते। अतो लोपः। ततो यस्य। यस्य च लोपो भवति। अत इत्येव। किमर्थमिदम्। लुकं वक्ष्यति तद्बाधनार्थम्। ततो हलः। हल उत्तरस्य यस्य च लोपो भवति। इह तर्हि परत्वाद् योगविभागाद्वा लोपो लुकं बाधेत। कृष्णो नोनाव वृषभो यदीदम्। (ऋ 1,79,2) नोनूयतेर्नोनाव। समानाश्रयो लुक् लोपेन बाध्यते। कश्च समानाश्रयः? यः प्रत्ययाश्रयः। अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग् भवति। कथं स्यदः प्रश्रथः हिमश्रथः। जीरदानुः। निकुचितः इति। ॥ उक्तं शेषे ॥। किमुक्तम्। निपातनात् स्यदादिषु। प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। रकिः ज्यः सम्प्रसारणम्। निकुचितेऽप्युक्तम्। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति। \ No newline at end of file +न धातुलोप आर्धधातुके +(पदकृत्याधिकरणम्) +धातुग्रहणं किमर्थम्? +इह मा भूत्। +लू्ञ्- लविता। लवितुम्। पू्ञ्- पविता। पवितुम् । + +आर्धधातुकग्रहणं किमर्थम्? +त्रिधा बद्धो वृषभो रोरवीति । + +(आर्धधातुकपदार्थान्वयाधिकरणम्) +किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम् - +आर्धधातुकनिमित्ते धातुलोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति +आहोस्विद् गुणवृद्धिविशेषणमार्धधातुकग्रहणम्- धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति ? +किं चातः? +यदि लोपविशेषणम्। उपेद्धः प्रेद्धः अत्रापि प्राप्नोति। +अथ गुणवृद्धिविशेषणम्। क्नोपयतीत्यत्रापि प्राप्नोति । + +यथेच्छसि तथास्तु। +अस्तु लोपविशेषणम् । +कथमुपेद्धः प्रेद्ध इति? +बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। +असिद्धं बहिरङ्गमन्तरङ्गे । + +यद्येवं नार्थो धातुग्रहणेन। +इह कस्मान्न भवति। +लू्ञ् लविता। लवितुम्। लवितव्यम् - इति? + +आर्धधातुकनिमित्ते लोपे प्रतिषेधः। +न चैष आर्धधातुकनिमित्तो लोपः। + +अथवा पुनरस्तु गुणवृद्धिविशेषणम् । + +ननु चोक्तं क्नोपयतीत्यत्रापि प्राप्नोति ? +नैष दोषः। निपातनात् सिद्धम्। +किं निपातनम् ? +"चेले क्नोपेः" इति । + +(परिगणनाधिकरणम्) +परिगणनं कर्तव्यम्। +<ऽ॥ यङ्यक्क्यवलोपे प्रतिषेधः ॥ऽ> +यङ्यक्क्यवलोपे प्रतिषेधो वक्तव्यः। +यङ् - बेभिदिता, मरीमृजः। +यक् - कुषुभिता, मगधकः। +क्य - समिधिता, दृषदकः। +वलोपे- जीरदानुः। + +किं प्रयोजनम् ? +<ऽ॥ नुम्लोपे स्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ॥ऽ> +नुम्लोपे स्रिवि अनुबन्धलोपे च प्रतिषेधो मा भूदिति॥ +नुम्लोपे - अभाजि, रागः, उपबर्हणम्। +स्रिवेः - आस्रेमाणम्। +अनुबन्धलोपे - लूञ्- लविता लवितुम्। + +यदि परिगणनं क्रियते ‘स्यदः, प्रश्रथः, हिमश्रथः’ इत्यत्रापि प्राप्नोति । + +वक्ष्यत्येतत्-*निपातनात् स्यदादिषु* इति। + +तत्तर्हि परिगणनं कर्तव्यम् ? + +न कर्तव्यम्। + +नुम्लोपे कस्मान्न भवति ? + +*इक्प्रकारणान्नुम्लोपे वृद्धिः।* + +इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः। + +यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। ‘स्यदः, प्रश्रथः, हिमश्रथः’ इत्यत्र न प्राप्नोति। +इह च प्राप्नोति - ‘अवोदः, एधः, ओद्मः’ इति । + +<ऽ॥ निपातनात्स्यदादिषु ॥।ऽ> +निपातनात् स्यादादिषु प्रतिषेधो भविष्यति, न च भविष्यति । + +यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः, स्रिव्यनुबन्धलोपे कथम् ? स्रिवेः - आस्रेमाणम् ,लूञ् - लविता ॥ + +*प्रत्ययाश्रयत्वादन्यत्र सिद्धम्।* +आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः । + +यद्यार्धातुकनिमित्ते लोपे प्रतिषेधः, ‘जीरदानुः’ (ऋ॰ सं॰ ५।८३।१) अत्र न प्राप्नोति । + +<ऽ॥ रकि ज्यः सम्प्रसारणम् ॥ऽ> +नैतज्जीवे रूपम्, रक्येतद् ज्यः सम्प्रसारणम् ॥ + +यावता चेदानीं रकि जीवेरपि सिद्धं भवति । कथमुपबर्हणम् ? + +बृहिः प्रकृत्यन्तरम्। + +कथं ज्ञायते बृहिः प्रकृत्यन्तरमिति ? + +अचीति हि लोप उच्यते, अनजादावपि दृश्यते-निबृह्यते। +अनिटीति चोच्यते, इडादावपि दृश्यते- निबर्हिता, निबर्हितुम् इति। +अजादावपि न दृश्यते- बृंहयति, बृंहकः। + +तस्मान्नार्थः परिगणनेन । + +यदि परिगणनं न क्रियते, ‘भेद्यते, छेद्यते’ अत्रापि प्राप्नोति । + +नैष दोषः। धातुलोप इति नैवं विज्ञायते- ‘धातोर्लोपो धातुलोपो - धातुलोपे’ इति। +कथं तर्हि ? +‘धातोर्लोपो यस्मिंस्तदिदं, धातुलोपं - धातुलोपे’ इति। + +तस्मादिग्लक्षणा वृद्धिः । + +(इग्लक्षणत्वे दोषनिराकरणाधिकरणम्) +यदि तर्हीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः, ‘पापचकः, पापठकः, मगधकः, दृषदकः’ अत्र न प्राप्नोति । + +<ऽ॥अल्लोपस्य स्थानिवत्त्वात्॥ऽ> +अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः । + +(सूत्रप्रत्याख्यानाधिकरणम्) +<ऽ॥ अनारम्भो वा ॥ऽ> +अनारम्भो वा पुनरस्य योगस्य न्याय्यः । + +कथं - ‘बेभिदिता, मरीमृजकः, कुषुभिता, मगधकः, समिधिता’ इति ? + +अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः ॥ + +यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः॥ +क्व च स्थानिवद्भावो नास्ति? +यत्र हलचोरादेशः - लोलुवः, पोपुवः, मरीमृजः, सरीसृपः इति । + +अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । + +लुकि कृते न प्राप्नोति॥ + +इदमिह सम्प्रधार्यम् - लुक् क्रियतामल्लोपो वेति, किमत्र कर्तव्यम्? +परत्वादल्लोपः। + +नित्यो लुक्। कृतेप्यल्लोपे प्राप्नोति अकृतेपि प्राप्नोति। + +लुगप्यनित्यः। +कथम्? +अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। +“शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति ।” + +अनवकाशस्तर्हि लुक्। + +सावकाशो लुक्। +कोऽवकाशः? +अवशिष्टः। + +अथापि कथंचिदनवकाशो लुक् स्यादेवमपि न दोषः। अल्लोपे योगविभागः करिष्यते- “अतो लोपः”। ततो “यस्य”, यस्य च लोपो भवति। अत इत्येव। +किमर्थमिदम्? +लुकं वक्ष्यति तद्बाधनार्थम्। +ततः - “हलः”, हल उत्तरस्य यस्य च लोपो भवतीति। + +इहापि तर्हि परत्वाद् योगविभागाद्वा लोपो लुकं बाधेत- “कृष्णो नोनाव वृषभो यदीदम्”।(ऋ 1,79,2) नोनूयतेर्नोनाव। + +समानाश्रयो लुक् लोपेन बाध्यते। +कश्च समानाश्रयः? +यः प्रत्ययाश्रयः। अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग् भवति। +कथं - स्यदः, प्रश्रथः, हिमश्रथः, जीरदानुः’(ऋ।सं। ५।८३।१) -निकुचित इति? +<ऽ॥ उक्तं शेषे ॥।ऽ> +किमुक्तम्? +*निपातनात् स्यदादिषु।* +*प्रत्ययाश्रयत्वादन्यत्र सिद्धम्।* +*रकिः ज्यः सम्प्रसारणम्।* +निकुचितेऽप्युक्तम्। +किम? +संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति॥ +न धातुलोप०॥४॥ +